|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.26. अध्यायः 026
Mahabharata - Sabha Parva - Chapter Topics
युधिष्ठिराज्ञया दिग्विजयार्थं निर्गतानामर्जुनादीनां सङ्क्षेपेण दिग्विजयक थनम्॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच।
`ऋषेस्तद्वचनं स्मृत्वा निशश्वास युधिष्ठिरः।
धर्म धर्मभृतां श्रेष्ठः कर्तुमिच्छन्परन्तपः। 2-26-1(12413)
तस्येङ्गितज्ञो बीभत्सुः सर्वशस्त्रभृतां वरः।
संविवर्तयिषुः कामं पावकात्पाकशासनिः'॥ 2-26-2(12414)
प्राप्तं प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी।
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत॥ 2-26-3(12415)
अर्जुन उवाच। 2-26-4x(1434)
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्।
प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम्॥ 2-26-4(12416)
तस्य कृत्यमहं मन्ये कोशस्य परिवर्धनम्।
करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम॥ 2-26-5(12417)
विजयाय प्रयास्यामि दिशं धनदपालिताम्।
तिथावथ मुहूर्ते च नक्षत्रे चाभिपूजिते॥ 2-26-6(12418)
वैशम्पायन उवाच। 2-26-7x(1435)
धनञ्जयवचः श्रुत्वा धर्मराजो युधिष्ठिरः
स्निग्धगम्भीरनादिन्यां तं गिरा प्रत्यभाषत॥ 2-26-7(12419)
स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ।
दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च॥ 2-26-8(12420)
विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्स्यसि।
इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः॥ 2-26-9(12421)
अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा।
तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ॥ 2-26-10(12422)
ससैन्याः प्रययुः सर्वे धर्मराजेन पूजिताः।
दिशं धनपतेरिष्टामजयत्पाकशासनिः॥ 2-26-11(12423)
भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम्।
प्रतीचीं नकुलो राजन्दिशं व्यजयतास्त्रवित्॥ 2-26-12(12424)
खाण्डवप्रस्थमध्यस्थो धर्मराजो युधिष्ठिरः।
आसीत्परमया लक्ष्म्या सुहृद्गणवृतः प्रभुः॥ ॥ 2-26-13(12425)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि षड्विंशोऽध्यायः॥ 26॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-26-13 खाण्डवप्रस्थं खाण्डवदाहेन ख्यापितस्थानम्॥ 13॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|